श्री रुद्रं चमकम्

(Please learn these veda mantras with experienced gurus and chant with swaras)

 

ॐ अग्ना'विष्णो सजोष'सेमाव'र्धन्तु वां गिरः' | द्युम्नैर्-वाजे'भिराग'तम् | वाज'श्च मे प्रसवश्च' मे प्रय'तिश्च मे प्रसि'तिश्च मे धीतिश्च' मे क्रतु'श्च मे स्वर'श्च मे श्लोक'श्च मे श्रावश्च' मे श्रुति'श्च मे ज्योति'श्च मे सुव'श्च मे प्राणश्च' मेऽपानश्च' मे व्यानश्च मेऽसु'श्च मे चित्तं च' म आधी'तं च मे वाक्च' मे मन'श्च मे चक्षु'श्च मे श्रोत्रं' च मे दक्ष'श्च मे बलं' च म ओज'श्च मे सह'श्च म आयु'श्च मे जरा च' म आत्मा च' मे तनूश्च' मे शर्म' च मे वर्म' च मेऽङ्गा'नि च मेऽस्थानि' च मे परूगं'षि च मे शरी'राणि च मे ‖ 1 ‖

जैष्ठ्यं' च म आधि'पत्यं च मे मन्युश्च' मे भाम'श्च मेऽम'श्च मेऽम्भ'श्च मे जेमा च' मे महिमा च' मे वरिमा च' मे प्रथिमा च' मे वर्ष्मा च' मे द्राघुया च' मे वृद्धं च' मे वृद्धि'श्च मे सत्यं च' मे श्रद्धा च' मे जग'च्च मे धनं' च मे वश'श्च मे त्विषि'श्च मे क्रीडा च' मे मोद'श्च मे जातं च' मे जनिष्यमा'णं च मे सूक्तं च' मे सुकृतं च' मे वित्तं च' मे वेद्यं' च मे भूतं च' मे भविष्यच्च' मे सुगं च' मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे क्लुप्तं च' मे क्लुप्ति'श्च मे मतिश्च' मे सुमतिश्च' मे ‖ 2 ‖

शं च' मे मय'श्च मे प्रियं च' मेऽनुकामश्च' मे काम'श्च मे सौमनसश्च' मे भद्रं च' मे श्रेय'श्च मे वस्य'श्च मे यश'श्च मे भग'श्च मे द्रवि'णं च मे यन्ता च' मे धर्ता च' मे क्षेम'श्च मे धृति'श्च मे विश्वं' च मे मह'श्च मे संविच्च' मे ज्ञात्रं' च मे सूश्च' मे प्रसूश्च' मे सीरं' च मे लयश्च' म ऋतं च' मेऽमृतं' च मेऽयक्ष्मं च मेऽना'मयच्च मे जीवातु'श्च मे दीर्घायुत्वं च' मेऽनमित्रं च मेऽभ'यं च मे सुगं च' मे शय'नं च मे सूषा च' मे सुदिनं' च मे ‖ 3 ‖

ऊर्क्च' मे सूनृता' च मे पय'श्च मे रस'श्च मे घृतं च' मे मधु' च मे सग्धि'श्च मे सपी'तिश्च मे कृषिश्च' मे वृष्टि'श्च मे जैत्रं' च म औद्भि'द्यं च मे रयिश्च' मे राय'श्च मे पुष्टं च मे पुष्टि'श्च मे विभु च' मे प्रभु च' मे बहु च' मे भूय'श्च मे पूर्णं च' मे पूर्णत'रं च मेऽक्षि'तिश्च मे कूय'वाश्च मेऽन्नं' च मेऽक्षु'च्च मे व्रीहय'श्च मे यवा''श्च मे माषा''श्च मे तिला''श्च मे मुद्गाश्च' मे खल्वा''श्च मे गोधूमा''श्च मे मसुरा''श्च मे प्रियङ्ग'वश्च मेऽण'वश्च मे श्यामाका''श्च मे नीवारा''श्च मे ‖ 4 ‖

अश्मा च' मे मृत्ति'का च मे गिरय'श्च मे पर्व'ताश्च मे सिक'ताश्च मे वनस्-पत'यश्च मे हिर'ण्यं च मेऽय'श्च मे सीसं' च मे त्रपु'श्च मे श्यामं च' मे लोहं च' मेऽग्निश्च' म आप'श्च मे वीरुध'श्च म ओष'धयश्च मे कृष्णपच्यं च' मेऽकृष्णपच्यं च' मे ग्राम्याश्च' मे पशव' आरण्याश्च' यज्ञेन' कल्पन्तां वित्तं च' मे वित्ति'श्च मे भूतं च' मे भूति'श्च मे वसु' च मे वसतिश्च' मे कर्म' च मे शक्ति'श्च मेऽर्थ'श्च म एम'श्च म इति'श्च मे गति'श्च मे ‖ 5 ‖

अग्निश्च' म इन्द्र'श्च मे सोम'श्च म इन्द्र'श्च मे सविता च' म इन्द्र'श्च मे सर'स्वती च म इन्द्र'श्च मे पूषा च' म इन्द्र'श्च मे बृहस्पति'श्च म इन्द्र'श्च मे मित्रश्च' म इन्द्र'श्च मे वरु'णश्च म इन्द्र'श्च मे त्वष्ठा' च म इन्द्र'श्च मे धाता च' म इन्द्र'श्च मे विष्णु'श्च म इन्द्र'श्च मेऽश्विनौ' च म इन्द्र'श्च मे मरुत'श्च म इन्द्र'श्च मे विश्वे' च मे देवा इन्द्र'श्च मे पृथिवी च' म इन्द्र'श्च मेऽन्तरि'क्षं च म इन्द्र'श्च मे द्यौश्च' म इन्द्र'श्च मे दिश'श्च म इन्द्र'श्च मे मूर्धा च' म इन्द्र'श्च मे प्रजाप'तिश्च म इन्द्र'श्च मे ‖ 6 ‖

अगंशुश्च' मे रश्मिश्च मेऽदा''भ्यश्च मेऽधि'पतिश्च म उपागंशुश्च' मेऽन्तर्यामश्च' म ऐन्द्रवायवश्च' मे मैत्रावरुणश्च' म आश्विनश्च' मे प्रतिप्रस्थान'श्च मे शुक्रश्च' मे मन्थी च' म आग्रयणश्च' मे वैश्वदेवश्च' मे ध्रुवश्च' मे वैश्वानरश्च' म ऋतुग्रहाश्च' मेऽतिग्राह्या''श्च म ऐंद्राग्नश्च' मे वैश्वदेवश्च' मे मरुत्वतीया''श्च मे माहेन्द्रश्च' म आदित्यश्च' मे सावित्रश्च' मे सारस्वतश्च' मे पौष्णश्च' मे पात्नीवतश्च' मे हारियोजनश्च' मे ‖ 7 ‖

इध्मश्च' मे बर्हिश्च' मे वेदि'श्च मे दिष्णि'याश्च मे स्रुच'श्च मे चमसाश्च' मे ग्रावा'णश्च मे स्वर'वश्च म उपरवाश्च' मेऽधिषव'णे च मे द्रोणकलशश्च' मे वायव्या'नि च मे पूतभृच्च' म आधवनीय'श्च म आग्नी''ध्रं च मे हविर्धानं' च मे गृहाश्च' मे सद'श्च मे पुरोडाशा''श्च मे पचताश्च' मेऽवभृथश्च' मे स्वगाकारश्च' मे ‖ 8 ‖

अग्निश्च' मे घर्मश्च' मेऽर्कश्च' मे सूर्य'श्च मे प्राणश्च' मेऽश्वमेधश्च' मे पृथिवी च मेऽदि'तिश्च मे दिति'श्च मे द्यौश्च' मे शक्व'रीरङ्गुल'यो दिश'श्च मे यज्ञेन' कल्पन्तामृक्च' मे साम' च मे स्तोम'श्च मे यजु'श्च मे दीक्षा च' मे तप'श्च म ऋतुश्च' मे व्रतं च' मेऽहोरात्रयो''र्-दृष्ट्या बृ'हद्रथंतरे च मे यज्ञेन' कल्पेतां ‖ 9 ‖

गर्भा''श्च मे वत्साश्च' मे त्र्यवि'श्च मे त्र्यवीच' मे दित्यवाट् च' मे दित्यौही च' मे पञ्चा'विश्च मे पंचावी च' मे त्रिवत्सश्च' मे त्रिवत्सा च' मे तुर्यवाट् च' मे तुर्यौही च' मे पष्ठवाट् च' मे पष्ठौही च' म उक्षा च' मे वशा च' म ऋषभश्च' मे वेहच्च' मेऽनड्वां च मे धेनुश्च' म आयु'र्-यज्ञेन' कल्पतां प्राणो यज्ञेन' कल्पताम्-अपानो यज्ञेन' कल्पतां व्यानो यज्ञेन' कल्पतां चक्षु'र्-यज्ञेन' कल्पताग् श्रोत्रं' यज्ञेन' कल्पतां मनो' यज्ञेन' कल्पतां वाग्-यज्ञेन' कल्पताम्-आत्मा यज्ञेन' कल्पतां यज्ञो यज्ञेन' कल्पताम् ‖ 10 ‖

एका' च मे तिस्रश्च' मे पञ्च' च मे सप्त च' मे नव' च म एका'दश च मे त्रयोदश च मे पञ्च'दश च मे सप्तद'श च मे नव'दश च म एक'विगंशतिश्च मे त्रयो'विगंशतिश्च मे पञ्च'विगंशतिश्च मे सप्त विगं'शतिश्च मे नव'विगंशतिश्च म एक'त्रिगंशच्च मे त्रय'स्त्रिगंशच्च मे चत'स्-रश्च मेऽष्टौ च' मे द्वाद'श च मे षोड'श च मे विगंशतिश्च' मे चतु'र्विगंशतिश्च मेऽष्टाविगं'शतिश्च मे द्वात्रिगं'शच्च मे षट्-त्रिगं'शच्च मे चत्वारिग्ंशच्च' मे चतु'श्-चत्वारिगंशच्च मेऽष्टाच'त्वारिगंशच्च मे वाज'श्च प्रसवश्चा'पिजश्च क्रतु'श्च सुव'श्च मूर्धा च व्यश्नि'यश्-चान्त्यायनश्-चान्त्य'श्च भौवनश्च भुव'नश्-चाधि'पतिश्च ‖ 11 ‖

ॐ इडा' देवहूर्-मनु'र्-यज्ञनीर्-बृहस्पति'रुक्थामदानि' शगंसिषद्-विश्वे'-देवाः सू''क्तवाचः पृथि'विमातर्मा मा' हिगंसीर्-मधु' मनिष्ये मधु' जनिष्ये मधु' वक्ष्यामि मधु' वदिष्यामि मधु'मतीं देवेभ्यो वाचमुद्यासगंशुश्रूषेण्या''म् मनुष्ये''भ्यस्तं मा' देवा अ'वन्तु शोभायै' पितरोऽनु'मदन्तु ‖

ॐ शांतिः शांतिः शान्तिः' ‖

Go to top
X

Sivachariyar.com

Please don't copy our site!